|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.155. अध्यायः 155
Mahabharata - Shanti Parva - Chapter Topics
नारदसूचितेन वायुना शाल्मलिमेत्य परेद्युस्तद्भञ्जनप्रतिज्ञानम्॥ 1॥ वायुबलज्ञेन शाल्मलिना तदागमनात्प्रागेव स्वेनैव स्वीयशाखावशातनपूर्वकमवस्थानम्॥ 2॥ परेद्युरागतेन वायुना तंप्रति तत्कृतशाखावशातनस्यापि स्वबलप्रयोज्यत्वोक्तिः॥ 3॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-155-0x(5817)(71221)
एवमुक्त्वा तु राजेन्द्र शाल्मलिं ब्रह्मवित्तमः।
नारदः पवने सर्वं शाल्मलेर्वाक्यमब्रवीत्॥ 12-155-1(71222)
नारद उवाच। 12-155-2x(5818)
हिमवत्पृष्ठजः कश्चिच्छाल्मलिः परिवारवान्।
बृहन्मूलो बृहच्छायः स त्वां वायोऽवमन्यते॥ 12-155-2(71223)
बहुव्याक्षेपयुक्तानि त्वामाह वचनानि सः।
न युक्तानि मया वायो तानि वक्तुं तवाग्रतः॥ 12-155-3(71224)
जानामि त्वामहं वायो सर्वप्राणभृतां वरम्।
वरिष्ठं च गरिष्ठं च सर्वलोकेश्वरं प्रभुम्॥ 12-155-4(71225)
भीष्म उवाच। 12-155-5x(5819)
एतत्तु वचनं श्रुत्वा नारदस्य समीरणः।
शाल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत्॥ 12-155-5(71226)
वायुरुवाच। 12-155-6x(5820)
शाल्मले नारदो गच्छंस्त्वयोक्तो मद्विगर्हणम्।
अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम्॥ 12-155-6(71227)
नाहं त्वां नाभिजानामि विदितश्चासि मे द्रुम्।
पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः॥ 12-155-7(71228)
तस्य विश्रमणादेव प्रसादौ मत्कृतस्तव।
अभूत्तस्य प्रसादात्त्वां न भज्यामि द्रुमाधम्॥ 12-155-8(71229)
यन्मां त्वमवजानीषे यथाऽन्यं प्राकृतं तथा।
दर्शयाम्येष चात्मानं यथा मां नावमन्यसे॥ 12-155-9(71230)
भीष्म उवाच। 12-155-10x(5821)
एवमुक्तस्ततः प्राह शाल्मलिः प्रहसन्निव।
पवन त्वं वने क्रुद्धो दर्शयात्मानमात्मना॥ 12-155-10(71231)
मयि वै मुच्यतां क्रोधः किं मे क्रुद्धः करिष्यसि।
न ते बिभेमि पवन यद्यपि त्वं स्वयं प्रभुः।
बलाधिकोऽहं त्वत्तश्च न भीः कार्या मया तव॥ 12-155-11(71232)
ये तु बुद्ध्या हि बलिनस्ते भवन्ति बलीयसः।
प्राणमात्रबला ये वै नैव ते बलिनो मताः॥ 12-155-12(71233)
इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद्वचः।
दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत्॥ 12-155-13(71234)
अथ निश्चित्य मनसा शाल्मलिर्वैरधारणम्।
पश्यमानस्तदात्मानमसमं मातरिश्वना॥ 12-155-14(71235)
नारदे यन्मया प्रोक्तं वचनं प्रति तन्मृषा।
असमर्थो ह्यहं वायोर्बलेन बलवान्हि सः॥ 12-155-15(71236)
मारुतो बल्यान्नित्यं यथा वै नारदोऽब्रवीत्।
अहं तु दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः॥ 12-155-16(71237)
किं तु बुद्ध्या समो नास्ति मम कश्चिद्वनस्पतिः।
तदहं बुद्धिमास्थाय भयं त्यक्ष्ये समीरणात्॥ 12-155-17(71238)
यदि तां बुद्धिमास्थाय तिष्ठेयुः पर्णिनो वने।
अरिष्टाः स्युः सदा क्रुद्धात्पवनान्नात्र संशयः॥ 12-155-18(71239)
ते तु बाला न जानन्ति यथा नैतान्समीरणः।
समीरयेत संक्रुद्धो यथा जानाम्यहं तथा॥ 12-155-19(71240)
भीष्म उवाच। 12-155-20x(5822)
ततो निश्चित्य मनसा शाल्मलिः क्षुभितस्तदा।
शाखाः स्कन्धान्प्रशाखाश्च स्वयमेव व्यशातयत्॥ 12-155-20(71241)
स परित्यज्य शाखाश्च पत्राणि कुसुमानि च।
प्रभाते वायुमायान्तं प्रेक्षते स्म वनस्पतिः॥ 12-155-21(71242)
ततः क्रुद्धः श्वसन्वायुः पातयन्वै महाद्रुमान्।
आजगामाथ तं देशमास्ते यत्र स शाल्मलिः॥ 12-155-22(71243)
तं हीनपर्णं पतिताग्रशाखं
निशीर्णपुष्पं प्रसमीक्ष्य वायुः।
उवाच वाक्यं स्ययमान एवं
मुदायुतः शाल्मलिं रुग्णशाखम्॥ 12-155-23(71244)
वायुरुवाच। 12-155-24x(5823)
अहमप्येवमेव त्वां कुर्यां वै शाल्मले रुपा।
आत्मना यत्कृतं कृच्छ्रं शाखानामपकर्पणम्॥ 12-155-24(71245)
हीनपुष्पाग्रशाखस्त्वं शीर्णाङ्कुरपलाशकः।
आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगः कृतः॥ 12-155-25(71246)
भीष्म उवाच। 12-155-26x(5824)
एतच्छ्रुत्वा वचो वायोः शाल्मलिर्व्रीडितस्तदा।
अतप्यत वचः स्मृत्वा नारदो यत्तदाऽब्रवीत्॥ 12-155-26(71247)
एवं हि राजशार्दूल दुर्बलः सन्वलीयसा।
वैरमासञ्जते बालस्तप्यते शाल्मलिर्यथा॥ 12-155-27(71248)
तस्माद्वैरं न कुर्वीत दुर्बलो बलवत्तरैः।
शोचेद्धि वैरं कुर्वाणो यथा वै शाल्मलिस्तथा॥ 12-155-28(71249)
न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु।
शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम्॥ 12-155-29(71250)
वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना।
बुद्धिर्वुद्धिमतो याति तूलष्विव हुताशनः॥ 12-155-30(71251)
न हि बुद्ध्या समं किंचिद्विद्यते पुरुषे नृप।
तथा बलेन राजेन्द्र न समोऽस्तीह कश्चन॥ 12-155-31(71252)
तस्मात्क्षमेत बालाय जडान्धवधिराय च।
बलाधिकाय राजेन्द्र तद्दृष्टं त्वयि शत्रुहन्॥ 12-155-32(71253)
अक्षौहिण्यो दशैका च सप्त चैव महाद्युते।
बलेन न समा राजन्नर्जुनस्य महात्मनः॥ 12-155-33(71254)
निहताश्चैव भग्नाश्च पाण्डवेन यशस्विना।
चरता बलमास्थाय पाकशासनिना मृधे॥ 12-155-34(71255)
उक्ताश्च ते राजधर्मा आपद्धर्माश्च भारत।
विस्तरेण महाराज किं भूयः प्रव्रवीमि ते॥ ॥ 12-155-35(71256)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चषच्चाशदधिकशततमोऽध्यायः॥ 155॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-155-8 रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद्द्रुमाधमेति झ. पाठः॥ 12-155-27 वैरमारभते इति झ. पाठः॥ 12-155-30 तृणेष्विव हुताशनः इति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|